|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.251. अध्यायः 251
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति तुरीथाश्रमधर्मप्रतिपादकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
श्रीशुक उवाच। 12-251-0x(6252)(75508)
वर्तमानस्तयेवात्र वानप्रस्थाश्रमे यथा।
योक्तव्योऽऽत्मा कथं शक्त्या परं वै काङ्क्षता पदम्॥ 12-251-1(75509)
व्यास उवाच। 12-251-2x(6253)
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्।
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु॥ 12-251-2(75510)
कषायं पाचयित्वाऽऽशु श्रेणिस्थानेषु च त्रिषु।
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्॥ 12-251-3(75511)
यद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा।
एक एव चरेद्धर्मं सिद्ध्यर्थमसहायवान्॥ 12-251-4(75512)
एकश्चरतिः यः पश्यन्न जहाति न हीयते।
अनग्निरनिकेतश्च ग्राममन्नार्थमाश्रयेत्॥ 12-251-5(75513)
अश्वस्तनविधाता स्यान्मुनिर्भावसमन्वितः।
लघ्वाशी नियताहारः सकृदन्ननिषेविता॥ 12-251-6(75514)
णलं वृक्षमलानि कुचेलमसदृ-------।
उपक्षा सर्वभूतानामेतावद्भिक्षुलक्षणाम्॥ 12-251-7(75515)
यस्मिन्वाचा प्राविशन्ति कूपे प्राप्ताः शिलाइव।
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत्॥ 12-251-8(75516)
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्।
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन॥ 12-251-9(75517)
बद्ब्राह्मणस्य कुशलं तदेव सततं वदेत्।
तूष्णीमासीत निन्दायां कुर्वन्भैषज्यमात्मनः॥ 12-251-10(75518)
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा।
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः॥ 12-251-11(75519)
येनकेन चिदाच्छन्नो येनकेनचिदाशितः।
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः॥ 12-251-12(75520)
अहेरिव गणाद्भीतः सन्मानान्मरणादिव।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः॥ 12-251-13(75521)
न कुद्ध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः।
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः॥ 12-251-14(75522)
नाभिनन्देत मरणं नाभिनन्देत जीवितम्।
कालमेव प्रतीक्षेत निदेशं भृतको यथा॥ 12-251-15(75523)
अनभ्याहतचित्तः स्यादनभ्याहतवाग्भवेत्।
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम्॥ 12-251-16(75524)
अभयं सर्वभूतेभ्यो भूतानामभयं यतः।
तस्य मोहाद्विमुक्तस्य भयं नास्ति कुतश्चन॥ 12-251-17(75525)
यथा नागपदेऽन्यानि पदानि पदगामिनाम्।
सर्वाण्येवापिलीयन्ते पदजातानि कौञ्जरे॥ 12-251-18(75526)
एवं सर्वमहिंसायां धर्मार्थमभिधीयते।
अमृतः स नित्यं भवति यो हिंसां न प्रपद्यते॥ 12-251-19(75527)
अहिसंकः समः सत्यो धृतिमान्नियतेन्द्रियः।
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्॥ 12-251-20(75528)
एवं प्रज्ञानतृप्तस्य निर्भयस्य निराशिषः।
न मृत्युरतिगो भावः स मृत्युं नाधिगच्छति॥ 12-251-21(75529)
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम्।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः॥ 12-251-22(75530)
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः॥ 12-251-23(75531)
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्।
निर्मुक्ते बन्धनैः सर्वैस्तं देवा ब्राह्मणं विदुः॥ 12-251-24(75532)
सर्वाणि भूतानि सुखे रमन्ते
सर्वाणि दुःखस्य भृशं त्रसन्ते।
तेषां भयोत्पादनजातखेदः
कुर्यान्न कर्माणि हि श्रद्दधानः॥ 12-251-25(75533)
दानं हि भूताभयदक्षिणायाः
सर्वाणि दानान्यधितिष्ठतीह।
तीक्ष्णां तनुं यः प्रथमं जहाति
सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः॥ 12-251-26(75534)
स दत्तमास्येन हविर्जुहोति
लोकस्य नाभिर्जगतः प्रतिष्ठा।
तस्याङ्गमङ्गानि कृताकृतं च
वैश्वानरः सर्वमिदं प्रपेदे॥ 12-251-27(75535)
प्रादेशमात्रे हृदि निःसृतं य
त्तस्मिन्प्राणानात्मयाजी जुहोति।
तस्याग्निहोत्रं हुतमात्मसंस्थं
सर्वेषु लोकेषु सदैवतेषु॥ 12-251-28(75536)
देवं त्रिधातुं त्रिवृतं सुपर्ण
ये विद्युरग्र्यां परमात्मतां च।
ते सर्वलोकेषु महीयमाना
देवाः समर्था अमृतं वहन्ति॥ 12-251-29(75537)
वेदांश्च वेद्यं तु विधिं च कृत्स्न
मथो निरुक्तं परमार्थतां च।
सर्वं शरीरात्मनि यः प्रवेद
तस्य स्म देवाः स्पृहयन्ति नित्यम्॥ 12-251-30(75538)
भूमावसक्तं दिवि चाप्रमेयं
हिरण्मयं योऽण्डजमण्डमध्ये।
पतत्रिणं पक्षिणमन्तरिक्षे
यो वेद भोग्यात्मनि दीप्तरश्मिः॥ 12-251-31(75539)
आवर्तमानमजरं विवर्तनं
षण्णाभिकं द्वादशारं सुपर्व।
यस्येदमास्योपरि याति विश्वं
यत्कालचक्रं निहितं गुहायाम्॥ 12-251-32(75540)
यः संप्रजानञ्जगतः शरीरं
सर्वान्स लोकानधिगच्छतीह।
तस्मिन्हितं तर्पयतीह देवां
स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य॥ 12-251-33(75541)
तेजोमयो नित्यमयः पुराणो
लोकाननन्तानभयानुपैति।
भूतानि यस्मान्न त्रसन्ते कदाचि
त्स भूतानां न त्रसते कदाचित्॥ 12-251-34(75542)
अगर्हणीयो न च गर्हतेऽन्या
न्स वै विप्रः परमात्मानमीक्षेत्।
विनीतमोहो व्यपनीतकल्मषो
न चेह नामुत्र च सोऽन्नमर्च्छति॥ 12-251-35(75543)
अरोषमोहः समलोष्टकाञ्चनः
प्रहीणशोको गतसन्धिविग्रहः।
अपेतनिन्दास्तुतिरप्रियाप्रिय
श्चरन्नुदासीनवदेष भिक्षुकः॥ ॥ 12-251-36(75544)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः॥ 251॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-251-3 कषायं चित्तदोषं पाचयित्वा विश्लथं कृत्वा। स्थानेष्वाश्रमेष्वनुत्तमम्। इदं मतं श्रेष्ठमित्यर्थः॥ 12-251-8 आक्रुश्यमानो नाक्रोशेदित्यर्थः। त्रस्ता द्विपा इवेति झ. पाठः॥ 12-251-10 भैषज्यं भवरोगचिकित्साम्॥ 12-251-13 अहेः सर्पात् गणाज्जनसमूहात्। सौहित्यान्नरकादिवेति झ. पाठः॥ 12-251-15 निदेशमाज्ञाम्। निर्वेदं भृतको यथेति थ. पाठः॥ 12-251-16 अभ्याहतं दोषाक्रान्तम्। निरमित्रस्याजातशत्रोः। 12-251-17 सर्वभूतेभ्यो यस्तेति शेषः॥ 12-251-18 नागपदे हस्तिपदे। पदगामिनां नृपश्वादीनां पदान्यपिलीयन्ते तिरोधीयन्ते। तथेन्द्रादीनां पदजातानि स्थानानि। कौञ्जरे क्लं पृथिवीं शरीररूपां जरथतीति कुञ्जरः समाधिस्थो योगी तस्य स्थाने कौञ्जरे पदे॥ 12-251-21 स मुक्तिमुपगच्छतीति थ. पाठः॥ 12-251-23 धर्मो रत्यर्थमेव चेति ध. पाठः॥ 12-251-24 अक्षीणं क्षीणकर्माणं तमिति ध. पाठः॥ 12-251-27 उत्तान आस्येनेति झ. पाठः॥ 12-251-29 देवाः समर्त्याः सुकृतं वदन्तीति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|